(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.63. अध्यायः 063
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन भीष्माभिमतपाण्डवजयपक्षप्रतिक्षेपः ॥ 1 ॥ तथा भीष्मादिनैरपेक्ष्येण कर्णादुश्शासनसङ्गतेन आत्मनैव पाण़्डवनिधनप्रतिज्ञा ॥ 2 ॥ विदुरेण दमप्रशंसनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

दुर्योधन उवाच। 5-63-0x(3585)(34177)
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्।
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥ 5-63-1(34178)
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः ।
समेन वयसा चैव प्रातिभेन श्रुतेन च ॥ 5-63-2(34179)
अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा।
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ॥ 5-63-3(34180)
पितामह विजानीषे पार्थेषु विजयं कथम्।
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ॥ 5-63-4(34181)
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे।
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ॥ 5-63-5(34182)
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ।
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ॥ 5-63-6(34183)
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ।
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना ।
अतरित्रानिव जले बाहुभिर्मामका रणे ॥ 5-63-7(34184)
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान्।
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ॥ 5-63-8(34185)
`सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम्।
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः ॥ 5-63-9(34186)
वैशम्पायन उवाच। 5-63-10x(3586)
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः ।
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ ॥ 5-63-10(34187)
धृतराष्ट्र उवाच। 5-63-11x(3587)
मोहितो मृत्युपाशेन कालस्य वशमागतः।
तात कर्णेन सहितः पुत्रो दुर्योधनो मम ॥' 5-63-11(34188)
विदुर उवाच। 5-63-12x(3588)
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ 5-63-12(34189)
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ॥ 5-63-13(34190)
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥ 5-63-14(34191)
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा ॥ 5-63-15(34192)
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्।
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ॥ 5-63-16(34193)
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ॥ 5-63-17(34194)
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥ 5-63-18(34195)
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम्।
मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते।
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् ॥ 5-63-19(34196)
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः परुषः स दान्तः परिकीर्तितः ॥ 5-63-20(34197)
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः ।
प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति ॥ 5-63-21(34198)
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ॥ 5-63-22(34199)
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः।
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ॥ 5-63-23(34200)
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत्।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥ 5-63-24(34201)
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः।
कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते ॥ 5-63-25(34202)
शकुनीनामिवाकाशे पदं नैवोपलभ्यते।
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ॥ 5-63-26(34203)
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ॥ ॥ 5-63-27(34204)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि त्रिषष्टितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-63-2 प्रातिभेन समयस्फूर्त्या ॥ 5-63-3 योधयुग्या शूरसमृद्ध्या ॥ 5-63-7 तरित्रा नौरक्षकाः कर्णधारादयः तद्रहितान् तद्वत् मामकास्तान् रणे बाहुभ्यां परिहरिष्यन्ति ॥ 5-63-16 समुदयः उदयहेतु ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.